|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.86. अध्यायः 086
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति पुरलक्षणादिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-86-0x(5568)(68156)
कथंविधं पुरं राजा स्वयमावस्तुमर्हति।
कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह॥ 12-86-1(68157)
भीष्म उवाच। 12-86-2x(5569)
वस्तव्यं यत्र कौन्तेय सपुत्रज्ञातिबन्धुना।
न्याय्यं च परिप्रष्टुं वृत्तिं गुप्तिं च भारत॥ 12-86-2(68158)
तस्मात्ते र्तयिष्यामि दुर्गकर्म विशेषतः।
श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः॥ 12-86-3(68159)
षङ्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत्।
सर्वसंपत्प्रधानं च बाहुल्यं चापि संभवेत्॥ 12-86-4(68160)
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च।
मनुष्यदुर्गं मृद्दुर्गं वनदुर्गं च तानि षट्॥ 12-86-5(68161)
यत्पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम्।
दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम्॥ 12-86-6(68162)
विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताः।
धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः॥ 12-86-7(68163)
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम्।
प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम्॥ 12-86-8(68164)
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम्।
शूराढ्यं प्राज्ञसंपूर्णं ब्रह्मघोषानुनादितम्॥ 12-86-9(68165)
समाजोत्सवसंपन्नं सदापूजितदैवतम्।
वश्यामात्यबलो राजा तत्पुरं स्वयमाविशेत्॥ 12-86-10(68166)
तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत्।
पुरे जनपदे चैव सर्वदोषान्निवर्तयेत्॥ 12-86-11(68167)
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत्।
निचयान्वर्धयेत्सर्वांस्तथा यन्त्रकटंकटान्॥ 12-86-12(68168)
काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान्।
मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च॥ 12-86-13(68169)
शणं सर्जरसं धान्यमायुधानि शरांस्तथा।
चर्म स्नायुं तथा वेत्रं मुञ्जवल्वजदंध्वनान्॥ 12-86-14(68170)
आशयाश्चोदपानाश्च प्रभूतसलिलाकराः।
निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः॥ 12-86-15(68171)
सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः।
महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः॥ 12-86-16(68172)
प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः।
कुलीनाः सत्वसंपन्ना युक्ताः सर्वेषु कर्मसु॥ 12-86-17(68173)
पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मेकान्।
नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु॥ 12-86-18(68174)
बाह्यमाभ्यन्तरं चैव पौरजानपदं तथा।
चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत्॥ 12-86-19(68175)
चरान्मन्त्रं च कोशं च दण्डं चैव विशेषतः।
अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम्॥ 12-86-20(68176)
उदासीनारिमित्राणां सर्वमेव चिकीर्षितम्।
पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा॥ 12-86-21(68177)
ततस्तेषां विधातव्यं सर्वमेवाप्रमादतः।
भक्तान्पूजयता नित्यं द्विषतश्च निगृह्णता॥ 12-86-22(68178)
यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया।
प्रजानां रक्षणं कार्यं न कार्यं धर्मबाधकम्॥ 12-86-23(68179)
कृपणानाथवृद्धानां विधवानां च योषिताम्।
योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत्॥ 12-86-24(68180)
आश्रमेषु यथाकालं चैलभाजनभोजनम्।
सदैवोपहरेद्राजा सत्कृयाभ्यर्च्य मान्य च॥ 12-86-25(68181)
आत्मानं सर्वकार्याणि तापसे राष्ट्रमेव च।
निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा॥ 12-86-26(68182)
` ते कस्यांचिदवस्थायां शरणं शरणार्थिने।
राज्ञे दद्युर्यथाकामं तापसाः शंसितव्रताः॥' 12-86-27(68183)
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम्।
पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः॥ 12-86-28(68184)
तस्मिन्कुर्वीत विश्वासं राजा कस्यांचिदापदि।
तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः॥ 12-86-29(68185)
तस्मिन्निधीनादधीत पुनः प्रत्याददीत च।
न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत्॥ 12-86-30(68186)
अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः।
अटवीषु परः कार्यः सामन्तनगरेष्वपि॥ 12-86-31(68187)
तेषु सत्कारमानाभ्यां संविभागांश्च कारयेत्।
परराष्ट्राटवीस्थेषु यथा स्वविषये तथा॥ 12-86-32(68188)
ते कस्यांचिदवस्थायां शरणं शरणार्थिने।
राज्ञे दद्युर्थथाकामं तापसाः संशितव्रताः॥ 12-86-33(68189)
एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः।
यादृशे नगरे राजा स्वयमावस्तुमर्हति॥ ॥ 12-86-34(68190)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षडशीतिममोऽध्यायः॥ 86॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-86-5 धन्वा निर्जलदेशस्तदेव परितश्च दुर्गं धन्वदुर्गम्। महीदुर्गं कोटः॥ 12-86-9 सानुनादं मीतवादित्रध्वनिमत्॥ 12-86-12 निचयान् धान्यादिसंग्रहान्। तथा यन्त्रालयायुधान्। इति झ. पाठः॥ 12-86-14 दंध्वनान् ध्वनिमतो निःसाणादीन्। बन्धनानिति पाठान्तरे स्पष्टोऽर्थः॥ 12-86-15 आशयाः निपानानि। उदपानाः कूपाः। निरोद्धव्या रक्षणीयाः॥ 12-86-17 प्रज्ञा ग्रन्थार्थग्रहणसामर्थ्यम्। मेधा ऊहापोहकौशलम्॥ 12-86-20 अतुतिष्ठेदालोचयेत्॥ 12-86-22 विधातव्यं प्रतिकर्तव्यम्॥ 12-86-26 तापसे तपस्विजने॥ 12-86-29 विश्वासं नाधिकुर्वन्ति दस्यव इति ड.थ. पाठः॥। 12-86-30 निधीन् धनभाण्डानि। अभीक्ष्णं न सेवेत्। दस्यूनां तत्सूचने तपस्विनाशापत्तेः न प्रतिपूजयेच्च॥ 12-86-31 अन्यस्तापसः कार्यः सखित्वेन संपादनीयः॥ 12-86-32 तेषु तत्तत्स्थानस्थेषु तापसेषु॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|